Paropkar Essay in Sanskrit. परोपकार पर संस्कृत में निबंध

इस पोस्ट में परोपकार पर संस्कृत में निबंध दिया गया है। आपको यहाँ परोपकार पर संस्कृत में 10 वाक्य, परोपकार पर संस्कृत श्लोक और short essay on paropkar in Sanskrit के बारे में पढ़ने को मिलेगा।

Paropkar Essay in Sanskrit. परोपकार पर संस्कृत में निबंध

  • प्रस्तावना
  • परोपकारस्य लाभाः, गुणाः, महत्त्वं च
  • दृष्टान्ताः
  • उपसंहारः

प्रस्तावना

परषाम् उपकारः परोपकारोऽस्ति। अन्येभ्यो मनुष्येभ्यो जीवभ्यो वा तेषा हितसम्पादनार्थ यस किंचिद् दीयते, तेषां साहाय्यं वा क्रियते, तत् सर्वं परोपकारशब्देन गृह्यते।

परोपकारस्य लाभाः, गुणाः, महत्त्वं च

संसारे परोपकार एव स गुणो विद्यते, येन मनुष्येषु जीवेषु वा सुखस्य प्रतिष्ठा वर्तते। समाजसेवाया भावना, देशप्रेमभावना देशभक्तिभावना, दीनोद्धरणभावना, परदुःखकातरता, सहानुभूतिगुणस्य सत्ता च परोपकारगणस्य ग्रहणेनैव भवति। परोपकारकरणेन हृदयं पवित्र। सत्त्वभावसमन्वितं सरल विनयोपेतं सरसं सदयं च भवति। परोपकारिणः परेषां दुःखं स्वीयं दुखं मत्वा तन्नाशाय यतन्ते। ते दीनेभ्यो दानं ददति, निर्धनेभ्यो धनम्, वस्त्रहीनेभ्यो वस्त्रम्, पिपासितेभ्यो जलम्, ‘ बुभुक्षितेभ्योऽन्नम्, अशिक्षितेभ्यश्च शिक्षां ददति। सज्जना : परोपकारेणैव प्रसन्ना भवन्ति। ते परोपकरणे स्वीयं द : खं न गणयन्ति। उच्यते च –

श्रोत्रं श्रुतेनैव न कुण्डलेन, दानेन पाणिर्न तु कङ्कणेन।
विभाति कायः खलु सज्जनानां, परोपकारेण न चन्दनेन ॥ १ ॥

प्रकृतिरपि परोपकारस्यैव शिक्षा ददाति। परोपकारार्थमेव सूर्यः तपति, चन्द्रो ज्योत्स्नां वितरति, वृक्षाः फलानि वितरन्ति, नद्यो वहन्ति, मेघाश्च वर्षन्ति। उक्तं च –

परोपकाराय फलन्ति वृक्षाः, परोपकाराय वहन्ति नद्यः।
परोपकाराय दुहन्ति गावः, परोपकारार्थमिदं शरीरम ॥ २ ॥

भवन्ति नभ्रास्तरवः फलोद्गमैः, नवाम्बुभिर्भूरिविलम्बिनोघनाः।
अनुद्धताः सत्पुरुषाः समृद्धिभिः, स्वभाव एवैष परोपकारिणम् ॥ ३ ॥

दृष्टान्ताः

शास्त्रेषु परोपकारस्य बहु महत्त्वं गीतमस्ति। परोपकारः सर्वेषामपटेश परोपकारेणैव जगतोऽभ्युदयो भवति, शान्तिः सुखं च वर्धेते। उक्तं च–

अष्टादशपुराणेषु, व्यासस्य वचनद्वयम्।
परोपकारः पुण्याय, पापाय परपीडनम् ॥ ४ ॥

उपसंहारः

परोपकारभावनयैव महाराजो दधीचिः देवानां हिताय स्वीयानि अस्थीति गोनाक्षणार्थं स्वमांसं श्येनाय प्रादात्। महाष दयानन्दः, महात्मा गांधिश्च भारतभूमिहितायैव प्राणान् दत्तवन्तौ। अत : सर्वैरपि सर्वदा सर्वथा परोप दत्तवन्तौ। अत : सर्वैरपि सर्वदा सर्वथा परोपकार : करणीय :। निगदितं चैतत् –

धनानि जीवितं चैव, परार्थे प्राज्ञउत्सृजेत्। सनिमित्ते वरं त्यागो, विनाशे नियते सति। परोपकारः कर्तव्यः, प्राणैरपि धनैरपि।
परोपकारजं पुण्यं, न स्यात् क्रतुशतैरपि ॥ ६ ॥


10 Lines on Paropkar in Sanskrit.(10 sentences on Paropkar in Sanskrit)

  • परेषां उपकाराय कृतम् कर्म उपकारः कथयते
  • अस्मिन् जगति सर्वेजनाः स्वीयं सुखं वाञ्छन्ति
  • अस्मिन् एव जगति एवविधाः अपि जनाः सन्ति ये आत्मनः अकल्याणं कृत्वाऽपि परेषां कल्याणं कुर्वन्ति ते एवम् परोपकारिणः सन्ति।
  • परोपकारः दैव भावः अस्ति।
  • अस्य भावस्य उदयेन एव समाजस्य देशस्य च प्रगतिः भवति।
  • अचेतनाः परोपकर्मणि रताः दृश्यन्ते।
  • मेघाः परोपकाराय जलं वहन्ति।
  • नद्यः अपि स्वीयं जलं न स्वयं पिबन्ति।
  • वृक्षाः परोपकाराय एव फलानि दधति एवं हि सज्जनाः परोपकाराय एव जीवनम् धारयन्ति।।
  • आत्मार्थं जीवलोकेऽस्मिन को न जीवति मानवः।
  • परं परोपकारार्थं यो जीवति स जीवति ॥

Short essay on paropkar in Sanskrit

परेषाम् प्राणिनामुपकार परोपकारोऽस्ति। संसारे परोपकारः एवं स गुणो विद्यते, येन मनुष्येषु सुखस्य प्रतिष्ठा वर्तते। परोपकारेण हृदयं पवित्रं सरलं सरसं सदयं च भवति। सत्पुरुषाः कदापि न स्वार्थतत्पराः भवन्ति। ते परेषां दुःखं स्वीयं दुःखं मत्वा तन्नाशाय यतन्ते। ते दीनेभ्यो दानं ददति . निर्धनेभ्यो धनम्, वस्त्रहीनेभ्यो वस्त्रम्, पिपासितेभ्यो जलम्, बुभुक्षितेभ्योऽन्नम्, अशिक्षितेभ्यश्च शिक्षा ददति। परोपकारभावनयैव दधीचिः देवानां हिताय स्वीयानि अस्थीनि ददौ। महाराजः शिविः कपोतरक्षणार्थं स्वमासं श्येनाय प्रादात्। अस्माकं शास्त्रेषु परोपकारस्य महत्ता वर्णिता। प्रकृतिरपि परोपकारस्यैव शिक्षां ददाति। अतः सर्वेरपि सर्वदा परोपकारः करणीयः।


परोपकार श्लोक इन संस्कृत. paropkar par 5 shlok in sanskrit

• रोपकारायय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः।
परोपकाराय दुहन्ति गावः परोपकारार्थ मिदं शरीरम् ॥

• आत्मार्थं जीवलोकेऽस्मिन् को न जीवति मानवः।
परं परोपकारार्थं यो जीवति स जीवति ॥

• अयं निज : परो वेति गणना लघुचेतसाम्।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥

• श्लोकार्धेन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः।
परोपकारः पुण्याय पापाय परपीडनम् ॥

• राहिणि नलिनीलक्ष्मी दिवसो निदधाति दिनकराप्रभवाम्।
अनपेक्षितगुणदोषः परोपकारः सतां व्यसनम् ॥

• परोपकृति कैवल्ये तोलयित्वा जनार्दनः।
गुर्वीमुपकृतिं मत्वा ह्यवतारान् दशाग्रहीत् ॥

• भवन्ति नम्रस्तरवः फलोद्रमैः नवाम्बुभिर्दूरविलम्बिनो घनाः।
अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम् ॥

ये भी पढ़ें –
• Essay on My College in Sanskrit.
• Essay on Holi in Sanskrit.
• गणतंत्र दिवस पर संस्कृत में निबंध
Essay on Mahatma Gandhi in Sanskrit
• संस्कृत भाषा के महत्व पर संस्कृत में निबंध
• Best Sanskrit Quotes
• Cow Essay in Sanskrit
• Essay on Bhagat Singh in Sanskrit


[tag] paropkar nibandh sanskrit mein. paropkar par 5 shlok in sanskrit. paropkar par nibandh. sanskrit subhashit on paropkar. paropkar par shlok sanskrit mein. sukti on paropkar in sanskrit. परोपकाराय सतां विभूतयः पर निबंध. परोपकार श्लोक इन संस्कृत

1 thought on “Paropkar Essay in Sanskrit. परोपकार पर संस्कृत में निबंध”

Leave a Comment