मम महाविद्यालयः Essay on My College in Sanskrit

हमारे महाविद्यालय पर निबंध, मेरा विद्यालय कैसा है इस पर संस्कृत में निबंध, स्कूल essy इन संस्कृत, essy ऑन यूनिवर्सिटी इन संस्कृत.

प्रस्तावना

मम महाविद्यालयो नगराद् बहिः एकान्ते सुन्दरे प्रदेशे स्थितोऽस्ति । महाविद्यालयस्य भवनं । निरीक्ष्य चेतो नितान्तं हर्षमनुभवति । महाविद्यालयस्य रमणीयता च न कस्य चेतो बलाद् हरति ? महाविद्यालयोऽस्माकं कृते न केवलं पाठशालाऽस्ति , अपि तु अस्माकं सर्वस्वमस्ति । अस्माभिरत्रैव अध्ययनं क्रियते , सदाचारस्य पाठः पठ्यते , विनयस्य अनुशासनस्य च शिक्षणं गृह्यते , समाजसेवाया देशभक्तेश्च भावनाऽत्रैव प्राप्यते । किमन्यत् , जीवनस्य यत् कर्तव्यमस्ति , तत् सर्वमपि अत्रैव लभ्यते । अत एव महाविद्यालयोऽयम् अस्माकं कृते ‘ विद्यामन्दिरम् ‘ अस्ति ।

विद्यालयस्य शिक्षा

मम महाविद्यालयेऽध्यापकानां प्राध्यापकानां च संख्या पञ्चाशतोऽधिका वर्तते । छात्राणां च । संख्या सहस्रादधिका विद्यते । प्रायः शतद्वयी बालिकानामपि संख्या वर्तते । महाविद्यालयस्य आचार्यवर्या अतीव प्रखरा विविधविद्यापारंगता विद्वांसः सन्ति । तेषां तेजोमयं वदनं वीक्ष्य छात्राः श्रद्धावनता भक्तिभावोपेताश्च भवन्ति । अध्यापकेषु च बहवो महाविद्वांसः सन्ति । सर्वेऽपि स्वस्वविषयेऽतीव विशारदाः सन्ति । तेषां शिक्षापद्धतिरपि बहु मनोरमा वर्तते । छात्रा अपि प्रायो । व्यत्पन्नबद्धयः सन्ति ।

शिक्षायाः समीचीनत्वादेव अन्यप्रान्तेभ्योऽपि छात्रा अत्रैवाध्ययनार्थमागच्छन्ति । राजकीयपरीक्षासु च विशिष्टं स्थानम् अस्मविद्यालयीया . सावा लभन्ते । न केवलं पठने एव छात्रा योग्यतमाः सन्ति , अपि तु क्रीडने तरणे धावने वाकप्रतियोगितासु अनुशासने संयमे समाजसेवायां देशसेवायामपि च तेषां स्थानं सर्वप्रथममेव विद्यते । अस्माकं महाविद्यालये विद्यार्थिनां क्रीडनार्थ क्रीडाक्षेत्रं सुविस्तृतमस्ति । विविधभाषास भाषणपाटवार्थ विविधाः परिषदः सन्ति । सैनिकशिक्षाया अपि प्रबन्धोऽस्ति । ये क्रीडनादिषु प्रथमस्थानं लभन्ते , ते पुरस्कारादिकमपि लभन्ते । ये किमपि शोभनं कर्म कुर्वन्ति , ते सदा पुरस्कृता भवन्ति , विद्यालये संमानमादरं च लभन्ते । छात्राणां स्वास्थ्यवृद्धयर्थं व्यायामस्य , मल्लयुद्धस्य , अन्येषां चोपयोगिवस्तूनां प्रबन्धोऽस्ति , अत एव छात्रा हृष्टाः पुष्टाश्च सन्ति । छात्राणां स्वास्थ्यं निरीक्ष्य सर्वेषामपि जनानां चेत : प्रहर्षमायोति ।

उपसंहारः

साम्प्रतमस्माकमेतत् कर्तव्यं भवति यत् सर्वथा वयं महाविद्यालयस्य कीर्ति दिक्षु विस्तृतां कुर्याम । एवमस्माकमपि यशो वृद्धि प्राप्स्यत्ति ।


Essay on Holi in Sanskrit.
• गणतंत्र दिवस पर संस्कृत में निबंध
• Essay on Diwali in Sanskrit
• संस्कृत भाषा के महत्व पर संस्कृत में निबंध

Leave a Comment