Essay on Bhagat Singh in Sanskrit. भगत सिंह पर संस्कृत में निबंध

भगत सिंह को भारतीय राष्ट्रवादी आंदोलन के सबसे प्रभावशाली क्रांतिकारियों में से एक माना जाता है। इस पोस्ट में हम आपको शहीद भगत सिंह पर संस्कृत में निबंध (Essay on Bhagat Singh in Sanskrit) देंगे।

संस्कृत में भगत सिंह का जीवन परिचय (biography of Bhagat Singh in Sanskrit) हिंदी मीडियम और इंग्लिश मीडियम दोनों स्कूल के बच्चों की परीक्षाओं में पूछा जाता है।

यहाँ आपको शहीद भगत सिंह पर संस्कृत निबंध, 5 lines on Bhagat Singh in Sanskrit, भगत सिंह के बारे में संस्कृत में आदि की जानकारी प्राप्त होगी।

5 Lines on Bhagat Singh in Sanskrit

भगतसिङ्गस्य नाम आबालवृद्धं सर्वैः अपि ज्ञायते एव। तस्य नाम्नः स्मरणमात्रेण तदीयं प्रेरणाप्रदं जीवनं नेत्रयोः पुरतः विलसति। ‘ मुहूर्त ज्वलितं श्रेयः न च धूमायितं चिरम् ‘ इत्येतस्य प्रत्यक्षम् उदाहरणम् आसीत् सः। ‘ क्रान्तिकारिणः तु सर्वदा प्राणत्यागम् एव स्पृहयन्ति। ये मरणात् भीताः न , ते आयुषः चिन्तां किमर्थं कुर्युः ? ‘ इति आसीत् तदीयं चिन्तनम्। तस्य चरमा इच्छा कीदृशी आसीत् इति किं भवन्तः जानन्ति ? किं बान्धवान् मित्राणि वा द्रष्टुम् ऐच्छत् सः ? न। सः ऐच्छत् – अस्पृश्य कुलीयेन सेवकेन निर्मितां रोटिकां खादितुम् !

Essay on Bhagat Singh in Sanskrit || Biography of Bhagat Singh in Sanskrit

भगतसिंहः स्वतन्त्रभारताय स्वप्राणाहूतिं दत्त्वा अमरः अभवत्। कश्चन सायन्तनः कालः। त्रिवर्षियः कश्चन बालकः स्वपित्रा सह विहारं कुर्वन् आसीत्। ताभ्यां सह कश्चन वृद्धः अपि आसीत्। सम्भाषणं कुर्वन्तः ते ग्रामसीमां प्राप्तवन्तः। तत्र सस्यानां हरितवर्णेन परिसरः आह्लादकरः दृश्यते स्म। भाषणं कुर्वन्तः ते एकस्य सस्यक्षेत्रस्य घट्ट प्राप्तवन्तः। बालकस्य आगमनशब्दः न श्रूयते इति पिता परिवृत्य दृष्टवान्। बालकः क्षेत्रे उपविश्य किमपि खनति स्म। ” किं करोति वत्स ? ” इति पिता पृष्टवान्। ” पश्य तात ! अस्मिन् क्षेत्रे अहं सर्वविधसस्यानि सफलानि करोमि। ” इति बालकः उक्तवान्। तस्य बालस्य नयनद्वयं द्योतते स्म। क्षेत्रे अवश्यं फलं प्राप्नोमि इति विश्वासः तस्य वचनेषु ध्वन्यते स्म। तस्य स्वरेण तौ ज्येष्ठौ आश्चर्यान्वितौ अभवताम्। सः बालकः एव भगतसिंहः। अनन्तरकाले मातृभूमि स्वतन्त्रं कर्तुं वीरोचितं युद्धं कृतवान् अयं समरसिंहः। पञ्जाबप्रान्तेलाहोरजनपदे बङ्गा इति ग्रामः। सरदारकिषनसिंह इत्येतस्य वीरपुरुषस्य वंशजाः तत्र निवसन्ति स्म। तस्मिन् वंशे अनेके वीराः आङ्ग्लेभ्यः भारतस्य विमोचनं कारयितुं युद्धं कृतवन्तः। बालके भगतसिंहे सर्वे स्निह्यन्ति स्म। अग्रे कदाचित् एषः बालकः प्रसिद्धो भविष्यतीति सर्वे परस्परं कथयन्ति स्म। तस्य मातुः विद्यावत्याः जीवनम् आरम्भतः अपि कष्टैरेव यातम्। क्रान्तिकारी तस्याः पतिः सर्वदा अज्ञाततया पर्यटन् गृहतः दूरे एव भवति स्म। भगतसिंहस्य कनिष्ठपितृव्यौ आस्ताम्। तयोः स्वरणसिंहम् आङ्ग्लेयाः द्वितीयपर्यायार्थं कारगारं प्रेषितवन्तः। कारागारजीवनं दुर्भरम् आसीत्। अतः स्वरणसिंहः रोगग्रस्तः अभवत्। कारागारतः विमोचनानन्तरमपि तस्य स्वास्थ्यं सम्यक नाऽभवत्। कतिपयदिनेषु सः दिवङ्गतः।।

दोषिणां विषये न्यायालये वादप्रतिवादमारब्धम्। तेषु दिनेषु राजनैतिककारणैः बद्धानां विषये अधिकारिणः सम्यक् न व्यवहरन्ति स्म। तेभ्यः। उत्तमं भोजनं न ददाति स्म। तान् अनेकधा पीडयन्ति स्म। भगतसिंहः , तस्य अनुचराश्च तादृशलज्जास्पदानां कार्याणां विषये सङ्घर्ष कर्त निश्चितवन्तः।


[tag] bhagat singh par sanskrit nibandh. bhagat singh ke baare mein sanskrit mein nibandh. bhagat singh par nibandh sanskrit mein. 5 easy lines on bhagat singh in sanskrit. some lines about bhagat singh in sanskrit. भगत सिंह संस्कृत में निबंध। भगत सिंह के बारे में संस्कृत में। भगत सिंह का जीवन परिचय संस्कृत में। भगत सिंह पर निबंध

Leave a Comment