गीताया उपदेशामृतम् । गीता उपदेश पर संस्कृत में निबंध

In this post you will get bhagavad gita essay in sanskrit, geeta ka mahatva in sanskrit language, short essay on bhagavad gita in sanskrit.

प्रस्तावना

महाभारतस्य युद्धे अर्जुनं विषण्णहृदयं दृष्ट्वा तस्य कर्तव्यबोधनार्थ भगवता कृष्णन य उपदेशो दसः स एव ‘ श्रीमदभगवदगीता ‘ इति नाम्ना प्रसिद्धोऽस्ति । गीतायां भगवता कृष्णेन प्रायः सर्वमपि मनुष्यस्य आवश्यक कर्तव्यं प्रतिपादितमस्ति । गीतायां ये उपदेशाः सन्ति , तेषां मुख्या एते सन्ति

गीताया मुख्या उपदेशाः

(1)

अयमात्माउजरोऽमरश्चास्ति।
नायं जायते न च म्रियते।
केनापि प्रकारेण नार्य नाश प्राप्नोति।
यथा जीर्णवस्त्रमुत्तार्य नवं वस्त्र धार्यते, तथैवं नवशरीरधारणमस्ति ।।

वासांसि जीर्णानि यथा विहाय, नवानि गृह्णाति नरोऽपराणि।
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥१॥

नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः।
न चैनं क्लेदयन्त्यापो, न शोषयति मारुतः ॥२॥

आत्माऽयम् अजरोऽमरश्चास्ति।
अत: कदाचिदपि शोको न करणीयः।

(२)

मनुष्यः स्वकर्मानुसारं पुनर्जन्म प्राप्नोति।
मर्त्यः कर्मानुसारं म्रियते च।
जातस्य हि ध्रुवो मृत्युध्रुवं जन्म मृतस्य च ।।

तस्मादपरिहार्येऽर्थे, न त्वं शोचितुमर्हसि ॥३॥

(३)

मनुष्यैः सदा निष्कामभावनया कर्म करणीयम्।
कर्म कदापि न त्याज्यम।
कर्मण्येवाधिकारस्ते, मा फलेषु कदाचन।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥४॥

नियतं कुरु कर्म त्वं, कर्म ज्यायो हकर्मणः।
शरीरयात्राऽपि च ते, न प्रसिध्येदकर्मणः ॥५॥

(४)

सर्वे : मनुष्यैः सदा स्वकर्म पालनीयम्।
स्वधर्मो न कदाचिदपि त्याज्यः।
स्वधर्मे निधनं श्रेयः, परधर्मो भयावहः ॥६॥

(5)

मनष्यैः सदा स्वकीतिरक्षा करणीया।
मरणं बरमस्ति, परन्तु न कीर्तिनाश संभावितस्य चाकीर्तिमरणादतिरिच्यते ॥७॥

(6)

शुभाशुभकर्मण: कदापि नाशो न भवति।
शुभं कर्म सदा भयात् जायते।
नेहाभिकमनाशोऽस्ति, प्रत्यवायो न विद्यते।
स्वल्पमप्यस्य धर्मस्य, बायते महतो भयात् ॥८॥

उपसंहारः

गीतायां ये उपदेशा दत्ता: सन्ति, ते सर्व एव जीवनस्योतिकारकाः। गीताया उपदेशानकला आचरणं कत्वा सर्वैरपि स्वजीवनमुन्नतं कर्तव्यम्। एतदर्थ गीतायाः पठन पाठनं चापि कार्यम। ‘गीता सुगीता कर्तव्या’ इति।


Essay on My College in Sanskrit.
• Essay on Holi in Sanskrit.
• गणतंत्र दिवस पर संस्कृत में निबंध
• Essay on Diwali in Sanskrit.
• संस्कृत भाषा के महत्व पर संस्कृत में निबंध

Leave a Comment